मंत्र-श्लोक-स्त्रोतं

श्री गणेश मंत्र, श्लोक तथा स्त्रोतम

ganesh-mantra

श्री गणेश मंत्र  (Lord Ganesh Mantra)

|| ॐ श्री गणपतयै नमः ||

गणेश   गायत्री   मन्त्र (Shri Ganesh Gayatri Mantra)

ॐ   तत्पुरुषाय   विद्महे वक्रतुण्डाय   धीमहि  तन्नो   दन्ती   प्रचोदयात्
ॐ गं गणपतये नमः |
ॐ श्री विघ्नेश्वराय  नमः ||

श्री गणेश श्लोक (Lord Ganesh Shlok)

1) वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ

    निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा

2) ॐ गजाननं भूंतागणाधि सेवितम्, कपित्थजम्बू फलचारु भक्षणम् |

     उमासुतम् शोक विनाश कारकम्, नमामि विघ्नेश्वर पादपंकजम् ||

संकटनाशक   गणेश   स्तोत्र (Sankat Nashak Ganesh Strot)

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिश्च जायते ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

About the author

Aaditi Dave

Hello Every One, Jai Shree Krishna, as I Belong To Brahman Family I Got All The Properties of Hindu Spirituality From My Elders and Relatives & Decided To Spreading All The Stuff About Hindu Dharma's Devotional Facts at Only One Roof.

क्या आपको हमारी पोस्ट पसंद आयी ?

error: Content is protected !!