शिव स्तुति

भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये

shiv-strotam

स्कन्दः -हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् ।तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥ १॥

भृङ्गी -क्रूरं दुष्टं विनष्टमनसं भ्रष्टं शठं निष्ठुरंनिर्लज्जं कृपणं कृतघ्नशुचिं बह्वाशनं हिंसकम् ।आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २॥

क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणंभीरुं डाम्भिकपक्षमं व्यसनिनं पापात्मकं सूचकम् ।आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३॥

मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलंकामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् ।सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥

आकाङ्क्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणंधूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् ।दीनं पापरतं समस्तविषयेष्वासक्तमन्यायिनेकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥

स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितंधयानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।दारिद्रयास्पदमात्मवैरिवशगं तापत्रयस्यास्पदंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ६॥

मायाग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणंदुःसङ्गप्रियमप्रतिष्ठववनं कामातुरं तस्करम् ।शैवज्ञानपराङ्गमुखं खलजनव्यापारपारं गतंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ७॥

दुर्मर्यादमतिप्रवृद्धजरसं सद्वृत्तिसेवारिपुंसद्धर्मादिसमुत्सुके गुरुजने मान्येषु चात्युद्धतम् ।शिष्टानिष्टकरं क्रियापरिचितं दुष्टप्रतुष्टिपदंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ८॥

कर्मादिस्तुतिकारणं परमहानिन्दाकरं निन्दितं लुण्टाकंपतितं विपर्ययगतस्वान्तं सदा याचकम् ।वैकल्यापगतं सुकार्यनिचयं सर्वापदां सञ्चयंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ९॥

कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महाकातरंदुर्बुद्धिं मदपानमत्सरधियं दुर्वृत्तवृत्त्याश्रयम् ।मिथ्याज्ञानिनमात्मात्मकण्टकमलं लोकत्रये निन्दितंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १०॥

दुष्कर्मप्रचयप्रभिन्नहृदयं क्लेशैश्च सम्पिडितंचार्वाकं कुमतिं कुशीलमनसं कार्पण्यजन्मस्थलम् ।भार्यापुत्रगृहादिसक्तमनसं गाम्भिर्यधैर्यद्विषंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ११॥

आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषंसङ्कल्पैर्बहुभिर्विभिन्नहृदयं द्वैतप्रसक्तं सदामर्मच्छिद्वचनं कठोरहृदयं मित्रद्रुहं क्षुद्रकंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १२॥

चित्तक्षोभकरं कलत्रहृदयं शङ्कापदं लोलुपंसारासारविचारहिनमनसं नीचक्रियं नीरसम् ।मत्तोन्मत्तनिकृष्टदुष्टचरितं शोच्यं वृथालापिनंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १३॥

सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञानकंदेवब्राह्मणगोत्रजातितिथिपितृज्ञानात्मकापूजनम् ।विश्वस्तेष्वपकारवञ्चनपरैर्मैत्रीपरं दुर्जयंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १४॥

मत्वाऽधर्ममतिं कदर्थनपरं को मत्समोऽस्मिन्भवेदित्येवं बहुजल्पिनं कुत्रपुषं पापाश्रितं राक्षसम् ।दृष्ट्वा दृष्टसुखेषणं तव मदात् त्यक्त्वा शिवाराधनंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १५॥

दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलंदासीमेषखरस्वभावमपटुं संमाननाभाजनम् ।रिक्तं बालमदीर्घसुत्रिणमलं हृच्छल्यभूतं सतांकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १६॥

मार्जाराखुवृकश्वकुक्कुटकपिक्रोडाभिवृत्तिं सदातीर्थध्वाङ्क्षमनर्थकम्पिनि हिते सन्तापिनं दुःसहम् ।त्यक्तोपायमपायकाङ्क्षिणमहोऽशुद्धप्रियं चापलंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १७॥

अस्पृश्यं विकलं कर्दयमखिलैः दोषैः स्वकिर्यैतंपापिष्ठं विषयेषु सक्तमनसं त्याज्यं विवादास्पदम् ।चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १८॥

अत्यावेशनमुत्तमस्थितिमतां सत्याग्निनां नास्तिकंरन्ध्रान्वेषणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः ।माहात्म्यश्रवणस्तुतिक्षणविधौ माहेश्वरावत्सलंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ १९॥

भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं सम्भ्रान्तंचपलं विचारविहितव्यापारविद्वेषणम् ।शम्भो त्वत्पदभक्तिहीनमनसं मूढं समात्मद्विषंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २०॥

दोषावासमतिं प्रमादितमतिं क्षुत्तुड्ज्वराभ्यर्दितंस्वप्नेऽप्यत्र परोपकाररहितं सर्वाहितं दुर्बलम् ।लोके सत्परिहार्यनिन्दितमहादुःखप्रदैकेन्द्रियंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २१॥

किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतलेभूतो नास्ति विभो भविष्यति पुमान् निर्भाग्यचूडामणिः ।तस्मादीदृशमात्मवञ्चनपरं त्रैलोक्यरक्षामणेकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २२॥

सर्वश्रेष्ठगुणैकभाजनमहो सर्वोत्तमेषूत्तंसङ्ख्येपार्थगुणैकभाजनमलं कष्टातिकष्टप्रियम् ।श्रीकाश्रीकमतेन्द्रियस्य वशगं निःसंशयं सङ्गिनंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २३॥

विण्मूत्रक्रिमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकंदुर्गन्धैकनिधिं जरापरिगतं वातादिदोषास्पदम् ।दृष्ट्वाऽपि स्वकलेवरं कृशमयं तवारिक्तं पशुंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २४॥

विष्टाविष्टकुजन्तुनिष्ठमशुचिं स्वाभाव्यतो नश्वरंकुष्ठक्षौण्यविषूचिकाज्वरशिरः शूलादिवेगास्पदम् ।ज्ञात्वाऽपि स्वशरीरमत्र तु सदा सम्प्रीतियुक्तं पशुंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २५॥

स्वात्माधारतया स्थितां निजतनुं बाल्ये तथा यौवनेवृद्धत्वेऽपि बहुप्रकारविकृतिं प्राप्तां समिक्ष्यापि च ।तत्रात्मन्यतिरागिणं त्वयि कृते स्वान्यानुरक्तं पशुंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २६॥

देहं क्षालनलेपनादिविधिना संस्पृश्य योग्यार्थवत्छिन्नं क्लिन्नमहाव्रणं नवमुखं नित्यं स्रवन्तं मलम् ।तं दृष्ट्वाऽप्यतिरागिणं च नरके नूनं सरागं पशुंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २७॥

लोकेऽत्यन्तपवित्रतामुपगतं यत् पञ्चगव्यादिकंतद्देहोत्थकफास्थिरोमरुधिरस्नाय्वादिसंस्पर्शतः ।स्यादेवाशुचि तद्विबुध्य च सदा तद्देहसक्तं पशुंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २८॥

स्वस्यार्युनिचयस्य मध्यत इमौ नित्यं निशावासरौजाग्रत्स्वप्नसुषुप्तिषु स्थितिमतः स्वल्पायुषः खण्डकं ।गच्छत् तावदबुद्धय च स्वहितसत्कर्मण्यरक्तं पशुंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २९॥

सर्पिः खण्डपयोमधुप्रभृतिकं त्यक्तवा तृणान्यपि गौःयद्वत् शाश्वतशाम्भवोक्तमहिमानन्दान्पेक्षं सदा ।शम्भो वैषयिके सुखेऽतिविरसे तुच्छेऽतिसक्तं पशुंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३०॥

धूमे कुङ्कुमगन्धकाङ्क्षिणमहो तोयार्थिनं वा मरौतैलान्वेषिणमश्वचूत्णनिचये मैत्र्यर्थिनं दुर्जने ।दुर्बुद्धीं त्रिगुणात्मके मलनिधौ क्षेत्रे सुखेप्सुं पशुंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३१॥

देवानामपि मारुतस्य च विभो गम्यं न यत् तत्र तुस्वैरं गच्छति मे मनो नहि तदा चित्तं तवाङ्घ्रिद्वये ।धर्तुस्तच्च नियन्तुमुच्चसुखदो नैर्वासमर्थं पशुंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३२॥

वेदैरप्यखिलैर्महेश बहुशो वेदान्तशास्त्रादिभिःव्यापि चिन्मय एक ईश्वर इति प्रोक्ते त्वयि त्वत्पदे ।चित्तं धर्तुमशक्तमात्मवचनैः व्यापारहीनं पशुंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३३॥

ज्ञानाज्ञानदयादयाशमदमासंमोहमोहानतिख्यात्यख्यातिभयाभयासुखसुखाहिंसामनस्तुष्टयः ।भूतनां भवदाज्ञयैव विधिना नित्यं भवन्ति ध्रुवंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३४॥

भावाभावभवाभवामृतविषसत्सत्समस्ता क्रियादिव्यत्वं च निरामयत्वनिखिलाभीष्टार्थसम्पत्तयः ।भूतानां भवदिच्छयैव भगवन् जायन्त एवानिशंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३५॥

योगैश्वर्यसमस्तदानपरता श्रद्धात्मभक्तिर्दृढावैराग्यं परमं महेश परमे धर्मे मतिश्चारुता ।भूतानां भवतः प्रसादत इमे जायन्त एव ध्रुवंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३६॥

नालं चालयितुं तृणं च पवनः शम्भो त्वदाज्ञां विनादग्धुं तं न समर्थ एव हुतभुक् शक्रोऽपि नो व्रजतः ।शक्तः छेत्तुमपि प्रभो जगदिदं सर्वं त्वदाज्ञावशंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३७॥

चित्तं चेतयते मनश्च सकलं सङ्कल्पयत्याज्ञयासर्वार्थानभिमन्यते ननु महादेवाज्ञयाऽहङ्कृतिः ।स्वे स्वे त्विन्द्रियवर्ग एव विषयेच्छास्ते तवैवाज्ञयाकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३८॥

ब्रह्मा सृष्टिकरो हरिः स्थितिकरो रुद्रस्तु कालात्मकःसंहर्ता जगतं श्रियं जनयति श्रीयुग्मविद्यां पुमान् ।गायत्री च तवाज्ञयैव नरकात् सन्तारयत्याश्रितान्कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३९॥

वायुर्वाति तवाज्ञया शशिरवी नित्यं जगद्भासकौआहारं पचते च कुक्षिसदने वह्निः सद प्राणिनाम् ।देवानां वहतीव हव्यमऽपि यः पाकं करोत्यत्ति यःकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४०॥

भूतान्याप इहाज्ञयैव भवतः सञ्जीवयन्ति प्रभो वाचावाग् विपुलं ददाति जगतां यत्तेखिलं पुंनभः ।भूतानामवकाशदं त्रिजगतां शीतोष्णशङ्कास्पदःकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४१॥

सेन्द्राः सर्वसुरासुरादय इह त्वच्छासने संस्थिताःब्रह्माण्डानि इहात्मवस्तुनि परे सन्धारकाः सन्ततम् ।त्रैलोक्यानुगतानपीह सुबहून्याज्ञावशादेव तेकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४२॥

हर्तासौ महदादिकं प्रकृतिरप्याज्ञावशा ते विभोकालश्च प्रकृतिः पुरुः पुरुष इत्येतत् त्रयं सर्वदा ।शम्भो देव भव त्वमेव च तथा भूतं भविष्यत् भवंकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४३॥

त्वयोपरि तमो घृतं तव महाब्धिलीलार्थमेवत्वयोन्नतिप्रेरणयैव ते तच्च विषयेष्वत्र प्रवृतं जगत् ।तापश्चापि रवेः समस्तजगतां दुःखार्तिहारिन प्रोभोकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४४॥

बन्धच्छेदविधौ त्वमेव भुवनेष्वेकः समर्थो भवेःत्वं पाशैर्भवबन्धमेतदखिलं कर्मच्छलेनापि च ।शम्भो त्वां शरणागतं करुणया त्वं शङ्करो येन वाकारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४५॥

महामुर्ते महादेव त्वन्मूर्तौ सर्वदेवताः ।यथा बीजाङ्कुरोत्पत्तिः तथेदं त्वय्यवस्थितम् ॥ ४६॥

जगज्जालमिदं शम्भो ससुरासुरमानुषम् ।नित्य निर्माय नीरूप धुरन्धर सुनिर्मलम् ॥ ४७॥

मनोवाचां सुदुरात्मन् परमेश नमोस्तु ते ।त्वत्तः सर्वं त्वया सर्वं त्वं सर्वं सर्वगोऽसि च ॥ ४८॥

नमस्ते देवदेवेश सर्वकारणकारण ।कर्तव्य च दया दिने करुणाकर शङ्कर ॥ ४९॥

सर्वापराधं मे देव क्षमस्व जगतां पते ।तव रूपं जगच्छम्भो अष्टमूर्तिरनीश्वरः ॥ ५०॥

पिता त्वमेव भगवन् माता साक्षादुमा यतः ।क्षमस्वागो ममेद नीं बहुनोक्तेन किं प्रभो ॥

त्वयि भक्तिं महादेव दृढां देहि मृडाव्यय ॥ ५२॥

स्कन्दः -इत्युक्तां मुनिवचनस्तुतिं महेशःश्रुत्वा चागकुमारिकायुतो हरस्तम् ।दत्वा रूपमपारदिव्यगणपस्येन्द्राधिपत्यं ददौतेनैवोत्तमसद्द्विजेन विहरत् कैलासमौलौ शिवः ॥ ५३॥

यस्त्त्वेतच्छृणुयात पठेन शम्भोःस्तव्यानां परमः स्तवोऽयमीशतुष्ट्यै ।सोऽन्ते चाप्यचिरेण भृङ्गितुल्यःपादाब्जे परमेश्वरस्य युक्तभृङ्गः ॥ ५४॥

॥ इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे भृङ्गिकृतशिवस्तोत्रवर्णनं नाम दशमोऽध्यायः ॥

About the author

Aaditi Dave

Hello Every One, Jai Shree Krishna, as I Belong To Brahman Family I Got All The Properties of Hindu Spirituality From My Elders and Relatives & Decided To Spreading All The Stuff About Hindu Dharma's Devotional Facts at Only One Roof.

Add Comment

Click here to post a comment

नयी पोस्ट आपके लिए